📚 वयम् अभ्यासं कुर्मः (शरीराङ्गानि) 📚
१. चित्रं दृष्ट्वा अङ्गस्य नाम लिखन्तु ।
(चित्र देखकर शरीर के अंगों के नाम लिखिए-)
| क्रमाङ्कः | अङ्गस्य नाम (उत्तरम्) |
|---|---|
| (क) | नेत्रम् |
| (ख) | उदरम् |
| (ग) | चरणः / पादः |
| (घ) | हस्तः |
| (ङ) | मुखम् |
२. कोष्ठकात् समुचितं क्रियापदं चित्वा उदाहरणानुसारम् अङ्गस्य कार्यं लिखन्तु ।
(कोष्ठक से उचित क्रियापद चुनकर उदाहरण के अनुसार अंग का कार्य लिखिए-)
यथा: नयनम् – पश्यति
(क) मुखम् – ………. (चलति, हसति, वदति)
उत्तरम्: मुखम् – वदति
उत्तरम्: मुखम् – वदति
(ख) पादः – ……….. (लिखति, चलति, पश्यति)
उत्तरम्: पादः – चलति
उत्तरम्: पादः – चलति
(ग) कर्णः – ……….. (हसति, वदति, शृणोति)
उत्तरम्: कर्णः – शृणोति
उत्तरम्: कर्णः – शृणोति
(घ) नासिका – ……….. (आघ्राणं करोति, नृत्यति, धावति)
उत्तरम्: नासिका – आघ्राणं करोति
उत्तरम्: नासिका – आघ्राणं करोति
(ङ) जिह्वा – ………… (धावनं करोति, आस्वादनं करोति, पश्यति)
उत्तरम्: जिह्वा – आस्वादनं करोति
उत्तरम्: जिह्वा – आस्वादनं करोति
३. कोष्ठकात् समुचितां संख्यां चित्वा रिक्तस्थानं पूरयन्तु ।
(कोष्ठक से उचित संख्या चुनकर रिक्त स्थानों की पूर्ति कीजिए-)
(क) मम …………. शिरः अस्ति । (एकम्, अनेकं, चत्वारि)
उत्तरम्: मम एकम् शिरः अस्ति ।
उत्तरम्: मम एकम् शिरः अस्ति ।
(ख) मम …….. पादौ स्तः । (त्रयः, द्वौ, पञ्च)
उत्तरम्: मम द्वौ पादौ स्तः ।
उत्तरम्: मम द्वौ पादौ स्तः ।
(ग) मम ……. केशाः सन्ति । (दश, अष्ट, बहव:)
उत्तरम्: मम बहवः केशाः सन्ति ।
उत्तरम्: मम बहवः केशाः सन्ति ।
(घ) मम ……….. दन्ताः सन्ति । (चत्वारः, अष्टाविंशतिः, द्वात्रिंशत्)
उत्तरम्: मम अष्टाविंशतिः दन्ताः सन्ति ।
उत्तरम्: मम अष्टाविंशतिः दन्ताः सन्ति ।
(ङ) मम हस्तयोः …….. अङ्गुल्यः सन्ति । (अष्ट, दश, पञ्चदश)
उत्तरम्: मम हस्तयोः दश अङ्गुल्यः सन्ति ।
उत्तरम्: मम हस्तयोः दश अङ्गुल्यः सन्ति ।
४. कोष्ठकात् समुचितं पदं चित्वा उदाहरणानुसारं शरीराङ्गस्य नाम लिखन्तु ।
(कोष्ठक से उचित पद चुनकर उदाहरण के अनुसार शरीर के अंग का नाम लिखिए-)
यथा: नयनम् – पश्यति
(क) शृणोति – ………… । (गुल्फ:, चिबुकम्, कर्ण:)
उत्तरम्: शृणोति – कर्णः ।
उत्तरम्: शृणोति – कर्णः ।
(ख) धावति – ……….. । (पादद्वयम्, हस्तद्वयम्, नयनद्वयम्)
उत्तरम्: धावति – पादद्वयम् ।
उत्तरम्: धावति – पादद्वयम् ।
(ग) नमति – ………. । (शिर:, कूर्पर:, जङ्घा)
उत्तरम्: नमति – शिरः ।
उत्तरम्: नमति – शिरः ।
(घ) सूचयति – ………. । (अङ्गुली, नख:, चरण:)
उत्तरम्: सूचयति – अङ्गुली ।
उत्तरम्: सूचयति – अङ्गुली ।
(ङ) लिखति – ………… । (हस्त:, मणिबन्ध:, कटि:)
उत्तरम्: लिखति – हस्तः ।
उत्तरम्: लिखति – हस्तः ।
५. पट्टिकातः शब्दान् चित्वा यथायोग्यं गणेषु लिखन्तु ।
(मंजूषा से शब्दों को चुनकर नीचे सारणी में सही प्रकार से लिखिए-)
पट्टिका: नासिका, मणिबन्धः, चिबुकम्, कूर्पर:, हस्त:, कपोल:, भुजः, ललाटम्, स्कन्धः, जङ्घा, नयनम्, जानु, ऊरु:
| क्रमाङ्कः | अङ्गानाम् नामानि (उत्तरम्) |
|---|---|
| १. | नासिका |
| २. | मणिबन्धः |
| ३. | चिबुकम् |
| ४. | कूर्परः |
| ५. | कपोलः |
| ६. | हस्तः |
| ७. | ललाटम् |
| ८. | भुजः |
| ९. | नयनम् |
| १०. | स्कन्धः |
| ११. | जङ्घा |
| १२. | जानु |
| १३. | ऊरुः |
६. कोष्ठकात् समुचितं पदं चित्वा वाक्यानि रचयन्तु ।
(कोष्ठक से सही शब्द चुनकर वाक्यों की रचना कीजिए-)
(क) अहं ………… गायनं करोमि । (पादेन, नासिकया, मुखेन)
उत्तरम्: अहं मुखेन गायनं करोमि ।
उत्तरम्: अहं मुखेन गायनं करोमि ।
(ख) अहं ……….. धावनं करोमि । (पादाभ्यां, ललाटेन, कूर्परेण)
उत्तरम्: अहं पादाभ्यां धावनं करोमि ।
उत्तरम्: अहं पादाभ्यां धावनं करोमि ।
(ग) अहं ……….. आघ्राणं करोमि । (नखै:, नासिकया, चरणेन)
उत्तरम्: अहं नासिकया आघ्राणं करोमि ।
उत्तरम्: अहं नासिकया आघ्राणं करोमि ।
(घ) अहं ……….. श्रवणं करोमि । (कर्णाभ्याम्, नासिकया, अङ्गुष्ठैः)
उत्तरम्: अहं कर्णाभ्याम् श्रवणं करोमि ।
उत्तरम्: अहं कर्णाभ्याम् श्रवणं करोमि ।
(ङ) अहं ………. भोजनं करोमि । (मुखेन, पादेन, नासिकया)
उत्तरम्: अहं मुखेन भोजनं करोमि ।
उत्तरम्: अहं मुखेन भोजनं करोमि ।
७. पट्टिकातः समुचितं शरीराङ्गं चित्वा भगिनी कुत्र किं धरति इति सूचयन्तु ।
(मंजूषा से सही शरीर का अंग चुनकर बताइए कि बहन कहाँ क्या पहनती है-)
पट्टिका: कण्ठे, ललाटे, नयनयोः, ओष्ठयोः, पादयोः, कर्णयोः, हस्तयोः, वामहस्ते, अङ्गुल्यां, नेत्रयोः
(क) भगिनी ……….. पादुकाद्वयं धरति ।
उत्तरम्: भगिनी पादयोः पादुकाद्वयं धरति ।
उत्तरम्: भगिनी पादयोः पादुकाद्वयं धरति ।
(ख) भगिनी ………… कङ्कणानि धरति ।
उत्तरम्: भगिनी हस्तयोः कङ्कणानि धरति ।
उत्तरम्: भगिनी हस्तयोः कङ्कणानि धरति ।
(ग) भगिनी …………. मुद्रिका धरति ।
उत्तरम्: भगिनी अङ्गुल्यां मुद्रिकां धरति ।
उत्तरम्: भगिनी अङ्गुल्यां मुद्रिकां धरति ।
(घ) भगिनी ……….. घटीयन्त्रं धरति ।
उत्तरम्: भगिनी वामहस्ते घटीयन्त्रं धरति ।
उत्तरम्: भगिनी वामहस्ते घटीयन्त्रं धरति ।
(ङ) भगिनी ……….. मालां धरति ।
उत्तरम्: भगिनी कण्ठे मालां धरति ।
उत्तरम्: भगिनी कण्ठे मालां धरति ।
(च) भगिनी ………… कुण्डलद्वयं धरति ।
उत्तरम्: भगिनी कर्णयोः कुण्डलद्वयं धरति ।
उत्तरम्: भगिनी कर्णयोः कुण्डलद्वयं धरति ।
(छ) भगिनी ……….. उपनेत्रं धरति ।
उत्तरम्: भगिनी नेत्रयोः उपनेत्रं धरति ।
उत्तरम्: भगिनी नेत्रयोः उपनेत्रं धरति ।
(ज) भगिनी ………. कुङ्कुमं धरति ।
उत्तरम्: भगिनी ललाटे कुङ्कुमं धरति ।
उत्तरम्: भगिनी ललाटे कुङ्कुमं धरति ।
(झ) भगिनी ……… ओष्ठरागं धरति ।
उत्तरम्: भगिनी ओष्ठयोः ओष्ठरागं धरति ।
उत्तरम्: भगिनी ओष्ठयोः ओष्ठरागं धरति ।
(ञ) भगिनी ……….. कज्जलं धरति ।
उत्तरम्: भगिनी नयनयोः कज्जलं धरति ।
उत्तरम्: भगिनी नयनयोः कज्जलं धरति ।
८. वाक्यं शुद्धम् अशुद्धं वा इति सूचयन्तु -
(बताइए कि वाक्य शुद्ध है या अशुद्ध-)
(क) अहं कर्णाभ्यां भोजनं करोमि ।
उत्तरम्: अशुद्धम्
उत्तरम्: अशुद्धम्
(ख) अहं नासिकाद्वारा श्वासं स्वीकरोमि ।
उत्तरम्: शुद्धम्
उत्तरम्: शुद्धम्
(ग) अहम् अङ्गुष्ठैः गणनां करोमि ।
उत्तरम्: शुद्धम्
उत्तरम्: शुद्धम्
(घ) अहं नयनाभ्यां श्रवणं करोमि ।
उत्तरम्: अशुद्धम्
उत्तरम्: अशुद्धम्
(ङ) अहं हस्तेन कार्यं करोमि ।
उत्तरम्: शुद्धम्
उत्तरम्: शुद्धम्