7 - सौहार्दं प्रकृतेः शोभा

 

सौहार्दं प्रकृतेः शोभा - प्रश्नोत्तराणि

 

प्रश्न 1. एकपदेन उत्तरं लिखत
(
क) वनराजः कैः दुरवस्था प्राप्तः?
उत्तर:- (क) तुच्छजीवैः

 

(ख) कः वातावरणं कर्कशध्वनिना आकुलीकरोति?
उत्तर:- (ख) काकः

 

(ग) काकचेष्ट: विद्यार्थी कीदृशः छात्रः मन्यते?
उत्तर:- (ग) आदर्शः

(घ) कः आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति?
उत्तर:- (घ) गजः

(ङ) बकः कीदृशान् मीनान् क्रूरतया भक्षयति?
उत्तर:- (ङ) वराकान्

 

 


 

प्रश्न 2. अधोलिखितप्रश्नानामुत्तराणि पूर्णवाक्येन लिखत
(क) नि:संशयं कः कृतान्तः मन्यते?
उत्तर:- (क) यः अपरैः वित्रस्तान् पीड्यमानान् जन्तून् सदा न रक्षति पार्थिवरूपेण स: निसंशय कृतान्तः मन्यते।

(ख) बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?
उत्तर:- (ख) बकः शीतले जले बहुकाल पर्यन्तम् अविचलः ध्यानमग्नः स्थितप्रज्ञः इव स्थित्वा वन्यजन्तूनां रक्षोपायान् चिन्तयितुं कथयति।

(ग) अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं किं वदति?
उत्तर:- (ग) अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं वदति यत् सर्वे जीवाः एव तस्याः सन्ततिः। कथं मिथः कलहं कुर्वन्ति। सर्वे जीवाः अन्योन्यश्रिताः सन्ति।

(घ) यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवे?
उत्तर:- (घ) यदि राजा सम्यक् न भवति तदा राजा जलधौ अकर्णधारा नौरिव विप्लवेत्।

(ङ) मयूरः कथं नृत्यमुद्रायां स्थितः भवति?
उत्तर:- (ङ) मयूरः पिच्छान् उद्घाट्य नृत्यमुद्रायां स्थितः भवति।

(च) अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?
उत्तर:- (च) अन्ते सर्वे मिलित्वा उलूकस्य राज्याभिषेकाय तत्पराः भवति।

(छ) अस्मिन्नाटके कति पात्राणि सन्ति?
उत्तर:- (छ) अस्मिन् नाटके द्वादश पात्राणि सन्ति।

 

 

 

 

प्रश्न 3. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत
(क) सिंहः वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।
उत्तर:- (क) सिंहः वानराभ्याम् कस्याम् असमर्थः एवासीत्?

(ख) गजः वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।
उत्तर:- (ख) गजः वन्यपशून् तुदन्तं केन पोथयित्वा मारयति?

(ग) वानरः आत्मानं वनराजपदाय योग्यः मन्यते।
उत्तर:- (ग) वानरः आत्मानं कस्मै योग्यः मन्यते?

(घ) मयूरस्य नृत्यं प्रकृतेः आराधना।
उत्तर:- (घ) मयूरस्य नृत्यं कस्याः आराधना?

(ङ) सर्वे प्रकृतिमातरं प्रणमन्ति।
उत्तर:- (ङ) सर्वे काम् प्रणमन्ति?



 

 

 

प्रश्न 4. शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत
(क) सिंहः आत्मानं तुदन्तं वानरं मारयति।
उत्तर:- (क) न

(ख) का-का इति बकस्य ध्वनिः भवति।
उत्तर:- (ख) न

(ग) काकपिकयोः वर्णः कृष्णः भवति।
उत्तर:- (ग) आम्

(घ) गजः लघुकायः, निर्बलः च भवति।
उत्तर:- (घ) न

(ङ) मयूरः बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते।
उत्तर:- (ङ) आम्

(च) अन्योन्यसहयोगेन प्राणिनाम् लाभः जायते।
उत्तर:- (च) आम्

 

 


 

 

प्रश्न 5. मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत
स्थितप्रज्ञः, यथासमयम्, मेध्यामेध्यभक्षकः, अहिभुक्, आत्मश्लाघाहीनः, पिकः।

(क) काकः ………………… भवति।
उत्तर:- (क) काक: मेध्यामध्यभक्षकः भवति।

(ख) …………………. परभृत् अपि कथ्यते।
उत्तर:- (ख) पिकः परभृत् अपि कथ्यते।

(ग) बकः अविचल: ………………… इव तिष्ठति।
उत्तर:- (ग) बकः अविचलः स्थितप्रज्ञः इव तिष्ठति।

(घ) मयूरः ……… इति नाम्नाऽपि ज्ञायते।
उत्तर:- (घ) मयूरः अहिभुक् इति नाम्नाऽपि ज्ञायते।

(ङ) उलूक : ………. पदनिर्लिप्तः चासीत्।
उत्तर:- (ङ) उलूक: आत्मश्लाघाहीनः पदनिर्लिप्तः चासीत्।

(च) सर्वेषामेव महत्त्वं विद्यते …………………..।
उत्तर:- (च) सर्वेषामेव महत्त्वं विद्यते यथासमयम्।

 

 

 

 

प्रश्न 6. वाच्यपरिवर्तनं कृत्वा लिखत
 उदाहरणम्- क्रुद्धः सिंहः इतस्ततः धावति गर्जति च।
        -क्रुद्धेन सिंहेन इतस्ततः धाव्यते गय॑ते च।
(क) त्वया सत्यं कथितम्।
उत्तर:- (क) त्वम् सत्यं कथयसि।

(ख) सिंहः सर्वजन्तून् पृच्छति।
उत्तर:- (ख) सिंहेन सर्वजन्तवः पृच्छ्यन्ते।

(ग) काकः पिकस्य संततिं पालयति।
उत्तर:- (ग) काकेन पिकस्य सन्ततिः पालयते।

(घ) मूयरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।
उत्तर:- (घ) विधाता मयूरम् एव पक्षिराज वनराजं वा अकरोत्।

(ङ) सर्वैः खगैः कोऽपि खगः एव वनराजः कर्तुमिष्यते स्म।
उत्तर:- (ङ) सर्वे खगाः कम् अपि खगं वनराजं कर्तुम्-ऐच्छन्।

(च) सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।
उत्तर:- (च) सर्वैः मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नः क्रियते।

 

 

 

 

 

प्रश्न 7. समासविग्रहं समस्तपदं वा लिखत
(क) तच्छजीवौः ………………।
उत्तर:- (क) तुच्छै: जीवैः



(ख) वृक्षोपरि ……………. |
उत्तर:- (ख) वृक्षस्य उपरि

(ग) पक्षिणां सम्राट् ……………
उत्तर:- (ग) पक्षिसम्राट

(घ) स्थिता प्रज्ञा यस्य सः ….
उत्तर:- (घ) स्थितप्रज्ञः

(ङ) अपूर्वम् …. ……।
उत्तर:- (ङ) न पूर्वम्

(च) व्याघ्रचित्रका
उत्तर:- (च) व्याघ्रः च चित्रकः च

 

 

प्रश्न 8. प्रकृतिप्रत्ययविभागं कुरुत / योजित्वा वा पदं रचयत –

(क)        क्रुध् + क्त                              .......................

(ख)        आकृष्य                                 .......................

(ग)         सत्यप्रियता                            .......................

(घ)         पराक्रमी                                .......................

(ङ)         कूर्द् + क्त्वा                            .......................

(च)        शृण्वन्                                  .......................

 

उत्तर:-  (क) क्रुधः          (ख) आ + कृष् + ल्यप्    (ग) सत्यप्रिय + तल्     

         (घ) पराक्रम + इन् + (णिनि)   (ङ) कूर्दित्वा        (च) शृ + शतृ

 


एक टिप्पणी भेजें

0 टिप्पणियाँ