प्रत्यभिज्ञानम् – प्रश्नोत्तराणि
प्रश्न: 1. एकपदेन उत्तरं लिखत
(क) क:
उमावेषमिवाश्रितः भवति?
उत्तर: (क) अर्जुनः/बृहन्नला
(ख) कस्याः अभिभाषणकौतूहलं महत् भवति?
उत्तर: (ख) बृहन्नलायाः
(ग) अस्माकं कुले किमनुचितम्?
उत्तर: (ग) आत्मस्तवम्/आत्मप्रशंसा
(घ) कः दर्पप्रशमनं कर्तुमिच्छति?
उत्तर: (घ) राजा
(ङ). कः अशस्त्रः
आसीत्?
उत्तर: (ङ) भीमसेनः
(च) कया गोग्रहणम्
अभवत्?
उत्तर: (छ)
सौभद्र:/अभिमन्युः
(छ) कः ग्रहणं गतः
आसीत्?
उत्तर: (च) दिष्ट्या /भाग्येन
प्रश्न: 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) भटः कस्य
ग्रहणम् अकरोत्?
उत्तर: (क) भटः अभिमन्योः
ग्रहणम् अकरोत्।
(ख) अभिमन्युः कथं
गृहीतः आसीत्?
उत्तर: (ख)
अशस्त्रभीमसेनेन रथम् आसाद्य बाहुभ्याम् अभिमन्युः गृहीतः आसीत्।
(ग) कः वल्लभ-बृहन्नलयोः
प्रश्नस्य उत्तरं न ददाति?
उत्तर: (ग) अभिमन्युः
वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति।
(घ) अभिमन्युः
स्वग्रहणे किमर्थम् आत्मानं वञ्चितम् अनुभवति?
उत्तर: (घ)
युद्धक्षेत्रे अशस्त्रभीमं दृष्ट्वा अभिमन्युः तम् प्रहारं न करोति भीमसेनः च अभिमन्यु
बाहुभ्याम् गृहीतवान्। अतः अभिमन्युः स्वग्रहणे वञ्चितः इव अनुभवति।
(ङ) कस्मात्
कारणात् अभिमन्युः गोग्रहणं
सुखान्तं मन्यते?
उत्तर: (ङ) अभिमन्युः
गोग्रहणं सुखान्तं मन्यते यतः अनेन तस्य स्वपितरः दर्शिताः।
प्रश्न: 3. अधोलिखितवाक्येषु प्रकटितभावं चिनुत--
(क) भोः को नु
खल्वेषः? येन
भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि। (विस्मयः, भयम्, जिज्ञासा)
उत्तर: (क) विस्मयः
(ख) कथं कथं! अभिमन्यु माहम्। (आत्मप्रशंसा, स्वाभिमानः, दैन्यम्)
उत्तर: (ख)
स्वाभिमानः
(ग) कथं मां पितृवदाक्रम्य
स्त्रीगतां कथां पृच्छसे? (लज्जा, क्रोधः, प्रसन्नता)
उत्तर: (ग) क्रोधः
(घ) धनुस्तु दुर्बलैः एव गृह्यते
मम तु भुजौ एव प्रहरणम्। (अन्धविश्वासः, शौर्यम्, उत्साहः)
उत्तर: (घ) शौर्यम्
(ङ) बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति। (आत्मविश्वासः, निराशा, वाक्संयमः)
उत्तर: (ङ) आत्मविश्वासः
(च) दिष्ट्या गोग्रहणं स्वन्तं
पितरो येन दर्शिताः। (क्षमा, हर्षः, धैर्यम्)
उत्तर: (च) हर्षः
प्रश्न: 4. यथास्थानं
रिक्तस्थानपूर्तिं कुरुत
(क) खलु + एषः = .......................
(ख) बल + .............. + अपि = बलाधिकेनापि
(ग) विभाति + ............ + इव + आश्रितः = बिभात्युमावेषम्
(घ) .............. + एनम् = वाचालयत्वेनम्
(ङ) रुष्यति + ........... = रुष्यत्येष
(च) त्वमेव + एनम् = .......................
(छ) यातु + ................. = यात्विति
(ज) ............... + इति = धनञ्जयायेति
उत्तर:
(क) खल्वेषः
(ख) अधिकेन
(ग) उमावेषम्
(घ) वाचालयतु
(ङ) एष
(च) त्वमेवैनम्
(छ) इति
(ज) धनञ्जयाय
प्रश्न: 5. अधोलिखितानि वचनानि कः कं प्रति कथयति-
यथा- कः कं प्रति
आर्य, अभिभाषणकौतूहलं मे महत् बृहन्नला भीमसेनम्
(क) कथमिदानीं सावज्ञमिव मां हस्यते ................ ................
(ख) अशस्त्रेणेत्यभिधीयताम् ................ ................
(ग) पूज्यतमस्य क्रियतां पूजा ................ ................
(घ) पुत्र ! कोऽयं मध्यमो नाम ................ ................
(ङ) शान्तं पापम् ! धनुस्तु दुर्बलैः एव गृह्यते ................ ................
उत्तर:
कः - कं प्रति
अभिमन्युः - बृहन्नलाम्
अभिमन्युः - भीमसेनम्
उत्तरः - नृपम्
भगवान् - अभिमन्युम्
भीमसेनः - अभिमन्युम्
प्रश्न: 6. अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि-
(क) वाचालयतु एनम् आर्यः। — उत्तर: अभिमन्यवे
(ख) किमर्थं तेन पदातिना गृहीतः। — उत्तर: भीमसेनाय
(ग) कथं न माम् अभिवादयसि। — उत्तर: नृपाय
(घ) मम तु भुजौ एव प्रहरणम्। — उत्तर: भीमसेनाय
(ङ) अपूर्व इव अत्र ते हर्षो ब्रूहि केन विस्मितः असि? — उत्तर: भटाय
7. श्लोकानाम्
अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत
(क) पार्थं पितरं मातुलं ……… च उद्दिश्य कृतास्त्रस्य
तरुणस्य युक्तः ।
उत्तर: (क) पार्थं पितरम्
मातुलं जनार्दनम् च उद्दिश्य कृतास्त्रस्य तरुणस्य युद्धपराजयः युक्तः।
(ख) कण्ठश्लिष्टेन
……… जरासन्धं योक्त्रयित्वा तत् असह्यं ……… कृत्वा। (भीमेन) कृष्णः अतदर्हतां
नीतः।
उत्तर: (ख) कण्ठश्लिष्टेन बाहुना जरासन्धं योक्त्रयित्वा तत् असह्यं
कर्म कृत्वा (भीमेन) कृष्णः अतदर्हतां नीतः।
(ग) रुष्यता ………
रमे। ते क्षेपेण न रुष्यामि, किं ………अहं नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।
उत्तर: (ग) रुष्यता भवता रमे। ते क्षेपेण न रुष्यामि, किं उक्त्वा अहम् नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।
(घ) पादयोः
निग्रहोचितः समुदाचारः .. । बाहुभ्याम् आहृतम् (माम्) ……… बाहुभ्याम् एव नेष्यति।
उत्तर: (घ) पादयोः निग्रहोचितः समुदाचारः क्रियताम्। बाहुभ्याम्
आहृतम् (माम्) भीमः बाहुभ्याम् एव नेष्यति।
(1) अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत
पदानि — उपसर्गः
यथा- आसाद्य — आ
(क) अवतारितः — …………….
(ख) विभाति — …………….
(ग) अभिभाषय — …………….
(घ) उद्भूताः — …………….
(ङ) उत्सिक्तः — …………….
(च) प्रहरन्ति — …………….
(छ) उपसर्पतु — …………….
(ज) परिरक्षिताः — …………….
(झ) प्रणमति — …………….
उत्तर:
(क) अव
(ख) वि
(ग) अभि
(घ) उद्
(ङ) उत्
(च) प्र
(छ) उप
(ज) परि
(झ) प्र
0 टिप्पणियाँ