कक्षा - 9 | संस्कृतम् (इरावती)
नवमः पाठः — ऋतुः वसन्तः (अभ्यास-कार्यम्)
१. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत:
(क) वसन्तस्य पर्यायवाची शब्दः कः?
उत्तरम्: ऋतुराजः (मधुमासः)
(ख) वसन्ते आकाशः कीदृशो भवति?
उत्तरम्: निर्मलः (विमलः)
(ग) वसन्ते कः मधुरं कूजति?
उत्तरम्: पिकः (कोकिलः)
(घ) पिकस्य ध्वनिं के अनुकुर्वन्ति?
उत्तरम्: जनाः (बालकाः)
(ङ) कम्पमाना लता कीदृशी प्रतीयते?
उत्तरम्: नर्तकीव
२. पट्टिकातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत:
(क) इदानीम् जडता विलीयते, मलीनता अपगता भवति।
(ख) सर्वत्र तडागेषु नदीषु कुल्यासु सरःसु च राजते विमलं वारि।
(ग) अद्यत्वे मधुनः आधिक्यम्; पुष्पेेषु मधूनि भवन्ति।
(घ) क्वचित् मुकुलितानि अपरत्र प्रफुल्लितानि कमलवनानि।
(ङ) यदा प्रमादं कुर्वन्ति तदा तेषां पक्षाः संसक्ता भवन्ति।
३. अधोलिखितेषु वाक्येषु सत्यम् / असत्यम् लिखत:
(क) वसन्तः ऋतुराजः इति कथ्यते। ➔ सत्यम् (✓)
(ख) वसन्तसमये आकाशः मलिनः दृश्यते। ➔ असत्यम् (✗)
(ग) वनेषु वाटिकासु च नानावर्णानि पुष्पाणि शोभन्ते। ➔ सत्यम् (✓)
(घ) केवलं मानवाः एव वसन्ते प्रमुदिताः भवन्ति। ➔ असत्यम् (✗)
(ङ) विकसितानां पङ्कजानां शोभा कस्यापि मनः न हरति। ➔ असत्यम् (✗)
४. सन्धिं सन्धिविच्छेदं च कुरुत:
(क) सु + आगतम् = स्वागतम् (यण् सन्धिः)
(ख) तव + आगमनम् = तवागमनम् (दीर्घ सन्धिः)
(ग) नर्तकी + इव = नर्तकीव (दीर्घ सन्धिः)
(घ) पुष्पाणामुपरि = पुष्पाणाम् + उपरि (वर्णसंयोजनम्)
(ङ) स्वानुरागम् = स्व + अनुरागम् (दीर्घ सन्धिः)