Advertisement

9 - ऋतुः वसन्तः

कक्षा - 9 | संस्कृतम् (इरावती)

नवमः पाठः — ऋतुः वसन्तः (अभ्यास-कार्यम्)

१. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत:

(क) वसन्तस्य पर्यायवाची शब्दः कः?
उत्तरम्: ऋतुराजः (मधुमासः)

(ख) वसन्ते आकाशः कीदृशो भवति?
उत्तरम्: निर्मलः (विमलः)

(ग) वसन्ते कः मधुरं कूजति?
उत्तरम्: पिकः (कोकिलः)

(घ) पिकस्य ध्वनिं के अनुकुर्वन्ति?
उत्तरम्: जनाः (बालकाः)

(ङ) कम्पमाना लता कीदृशी प्रतीयते?
उत्तरम्: नर्तकीव

२. पट्टिकातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत:

(क) इदानीम् जडता विलीयते, मलीनता अपगता भवति।

(ख) सर्वत्र तडागेषु नदीषु कुल्यासु सरःसु च राजते विमलं वारि।

(ग) अद्यत्वे मधुनः आधिक्यम्; पुष्पेेषु मधूनि भवन्ति।

(घ) क्वचित् मुकुलितानि अपरत्र प्रफुल्लितानि कमलवनानि।

(ङ) यदा प्रमादं कुर्वन्ति तदा तेषां पक्षाः संसक्ता भवन्ति।

३. अधोलिखितेषु वाक्येषु सत्यम् / असत्यम् लिखत:

(क) वसन्तः ऋतुराजः इति कथ्यते।सत्यम् (✓)

(ख) वसन्तसमये आकाशः मलिनः दृश्यते।असत्यम् (✗)

(ग) वनेषु वाटिकासु च नानावर्णानि पुष्पाणि शोभन्ते।सत्यम् (✓)

(घ) केवलं मानवाः एव वसन्ते प्रमुदिताः भवन्ति।असत्यम् (✗)

(ङ) विकसितानां पङ्कजानां शोभा कस्यापि मनः न हरति।असत्यम् (✗)

४. सन्धिं सन्धिविच्छेदं च कुरुत:

(क) सु + आगतम् = स्वागतम् (यण् सन्धिः)

(ख) तव + आगमनम् = तवागमनम् (दीर्घ सन्धिः)

(ग) नर्तकी + इव = नर्तकीव (दीर्घ सन्धिः)

(घ) पुष्पाणामुपरि = पुष्पाणाम् + उपरि (वर्णसंयोजनम्)

(ङ) स्वानुरागम् = स्व + अनुरागम् (दीर्घ सन्धिः)

Advertisement