Advertisement

7 - विद्यामहिमा

कक्षा - 9 | संस्कृतम् (इरावती)

सप्तमः पाठः — विद्यामहिमा (अभ्यास-कार्यम्)

१. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत:

(क) विद्या किं ददाति?
उत्तरम्: विनयम्

(ख) कस्मात् पात्रतां याति?
उत्तरम्: विनयात्

(ग) राजा कुत्र पूज्यते?
उत्तरम्: स्वदेशे

(घ) विद्वान् कुत्र पूज्यते?
उत्तरम्: सर्वत्र

(ङ) कस्य कोशः अपूर्वः अस्ति?
उत्तरम्: सरस्वत्याः (भारत्याः)

२ (अ). रिक्तस्थानानि पूरयत:

(क) न भ्रातृभाज्यं न च भारकारि

(ख) विनयाद्याति पात्रताम्।

(ग) अपूर्वः कोऽपि कोशः विद्यते तव भारति।

(घ) व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात्।

(ङ) विद्वत्त्वं च नृपत्त्वं च नैव तुल्ये कदाचन।

२ (ब). अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत:

(यथा: आयाति ➔ आयन्ति)

(क) विद्यतेविद्यन्ते

(ख) यातियान्ति

(ग) वर्धतेवर्धन्ते

(घ) पूज्यतेपूज्यन्ते

(ङ) उच्यतेउच्यन्ते

३ (अ). मञ्जूषायाः उचितं पदं चित्वा श्लोकं पूरयन्तु:

(क) विद्याधनं सर्वधनप्रधानम् अस्ति।

(ख) विद्या सञ्चयात् क्षयम् याति।

(ग) विद्वान् सर्वत्र पूज्यते।

३ (ब). विशेष्य-विशेषण मेलनम्:

(क) अपूर्वःकोशः

(ख) सर्वधनप्रधानम्धनम्

(ग) गुप्तम्विद्या

३ (ग). सत्यम् / आम् (असत्यम् / न):

(क) विद्यारूपि धनं भ्रातृभाज्यम् अस्ति।

(ख) विद्याधनं व्यये कृते न्यूनं भवति।

(ग) राजा केवलं स्वदेशे एव पूज्यते।आम्

Advertisement