Advertisement

6 - न गङ्गदत्तः पुनरेति कूपम्

कक्षा - 9 | संस्कृतम् (इरावती)

षष्ठः पाठः न गङ्गदत्तः पुनरेति कूपम् (अभ्यास-कार्यम्)

१. एकपदेन उत्तरत:

(क) गंगदत्तस्य उभयतः के आसन्?
उत्तरम्: दायादाः (सगोत्राः / भेकाः)

(ख) कूपे कः निवसति स्म?
उत्तरम्: गङ्गदत्तः (मण्डूकराजः)

(ग) गङ्गदत्तस्य दुर्व्यवहारेण के रुष्टाः अभवन्?
उत्तरम्: दायादाः (तस्य सम्बन्धिनः)

(घ) कूपात् बहिः आगत्य गङ्गदत्तः कस्य समीपं गतः?
उत्तरम्: प्रियदर्शनस्य (सर्पस्य)

(ङ) सर्वान् भेकान् कः अभक्षयत्?
उत्तरम्: प्रियदर्शनः (सर्पः)

२. रिक्तस्थानानि पूरयत:

(अ) पट्टिकातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत:

(क) परिश्रमं बिना न सुखम्।

(ख) सर्पः ततः पलायितः।

(ग) छात्रः प्रतिदिनम् विद्यालयं गच्छति।

(घ) क्व ते निवासः?

(ङ) वर्षाकाले बहिः मा गच्छ।

(च) गङ्गदत्त कूपम् न पुनः एति।

(ब) कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत:

(क) मार्गम् उभयतः वृक्षाः भवन्ति।

(ख) वर्षाकाले गृहात् बहिः गन्तुं न शक्यम्।

(ग) दुष्टेन सह गमनं न युक्तम्।

३. समानार्थक-शब्दानां मेलनम्:

(क) मण्डूकःभेकः

(ख) सखामित्रम्

(ग) तडागःजलाशयः

(घ) अपमानःपराभवः

(ङ) रुष्टःक्रुद्धः

Advertisement