जटायोः शौर्यम् - प्रश्नोत्तराणि
प्रश्न: 1. एकपदेन उत्तरं
लिखत
(क) आयतलोचना का अस्ति?
उत्तर: (क) सीता
(ख) सा कं ददर्श?
उत्तर: (ख) जटायुम् / गृध्रम्।
(ग) खगोत्तमः कीदृशीं गिरं व्याजहार?
उत्तर: (ग) शुभाम्
(घ) जटायुः काभ्यां रावणस्य गात्रे व्रणं चकार?
उत्तर: (घ) तीक्ष्णनखाभ्याम्
(ङ) अरिन्दमः खगाधिपः कति बाहून् व्यपाहरत्?
उत्तर: (ङ) दश
प्रश्न: 2. अधोलिखितानां
प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) “जटायो! पश्य”
इति का वदति?
उत्तर: (क) “जटायो! पश्य” इति वैदेही (सीता) वदति।
(ख) जटायुः रावणं किं कथयति?
उत्तर: (ख) जटायुः रावणं कथयति यत् परस्त्रीस्पर्शात् नीचां मतिं
निवर्तय धीरः तत् न समाचरेत् यत् अस्य परः विर्गहयेत्।
(ग) क्रोधवशात्
रावणः किं कर्तुम् उद्यतः अभवत्?
उत्तर: (ग) क्रोधवशात् रावणः वैदेहीं वामेन अङ्केन संपरिष्वज्य
जटायुं तलेन आशु अभिजघान।
(घ) पतगेश्वरः
रावणस्य कीदृशं चापं सशरं बभञ्ज?
उत्तर: (घ) पतगेश्वरः
रावणस्य मुक्तामणिविभूषितम् चापं सशरं बभञ्ज।
(ङ) जटायुः केन
वामबाहु दंशति?
उत्तर: (ङ) जटायुः
तुण्डेन वामबाहु दंशति।
प्रश्न 3. उदाहरणमनुसृत्य
णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत
यथा- गुण + णिनि — गुणिन् (गुणी)
दान + णिनि — दानिन् (दानी)
(क) कवच + णिनि —
…………… उत्तर: (क) कवच + णिनि —
कवचिन् (कवची)
(ख) शर + णिनि —
…………… उत्तर: (ख) शर + णिनि —
शरिन् (शरी)
(ग) कुशल + णिनि —
…………… उत्तर: (ग) कुशल + णिनि —
कुशलिन् (कुशली)
(घ) धन + णिनि —
…………… उत्तर: (घ) धन + णिनि —
धनिन् (धनी)
(ङ) दण्ड + णिनि —
…………… उत्तर: (ङ) दण्ड + णिनि —
दण्डिन् (दण्डी)
(अ) रावणस्य
जटायोश्च विशेषणानि सम्मिलितरूपेण लिखितानि तानि पृथक्-पृथक् कृत्वा लिखत
(युवा, सशरः, वृद्धः, हताश्वः, महाबलः, पतगसत्तमः, भग्नधन्वा, महागृध्रः, खगाधिपः, क्रोधमूच्छितः, पतगेश्वरः, सरथः, कवची, शरी)
यथा —
रावणः — जटायुः
युवा — वृद्धः
उत्तर:
प्रश्न: 4. ‘क’ स्तम्भे
लिखितानां पदानां पर्यायाः ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्षं योजयत-
‘क’ — ‘ख’
कवची — अपतत्
आशु — पक्षिश्रेष्ठः
विरथः — पृथिव्याम्
पपात — कवचधारी
भुवि — शीघ्रम्
पतगसत्तमः
— रथविहीनः
उत्तर:
‘क’ स्तम्भ —
‘ख’ स्तम्भ
कवची — कवचधार
आशु — शीघ्रम्
विरथः — रथविहीनः
पपात — अपतत्
भुवि — पृथिव्याम्
पतगसत्तमः
— पक्षिश्रेष्ठः
प्रश्न: 5. अधोलिखितानां
पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत
(मन्दम् पुण्यकर्मणा हसन्ती अनार्य अनतिक्रम्य देवेन्द्रेण
प्रशंसेत् दक्षिणेन युवा)
(क) विलपन्ती — ……………
(ख) आर्य — ……………
(ग) राक्षसेन्द्रेण — ……………
(घ) पापकर्मणा — ……………
(ङ) क्षिप्रम् — ……………
(च) विगर्हयेत् — ……………
(छ) वृद्धः — ……………
(ज) वामेन — ……………
(झ) अतिक्रम्य — ……………
उत्तर: पदानि — विलोमशब्दाः
(क) विलपन्ती —
हसन्ती
(ख) आर्य —
अनार्य
(ग) राक्षसेन्द्रेण —
देवेन्द्रेण
(घ) पापकर्मणा —
पुण्यकर्मणा
(ङ) क्षिप्रम् —
मन्दम्
(च) विगर्हयेत् —
प्रशंसेत्
(छ) वृद्धः —
युवा
(ज) वामेन —
दक्षिणेन
(झ) अतिक्रम्य —
अनतिक्रम्य
प्रश्न: 6. (अ) अधोलिखितानि
विशेषणपदानि प्रयुज्य संस्कृतवाक्यानि रचयत
(क) शुभाम् —
………………
(ख) खगाधिपः — ………………
(ग) हतसारथिः — ………………
(घ) वामेन — ………………
(ङ) कवची — ………………
उत्तर:
(क) शुभाम्- वृक्षे स्थितः जटायुः रावणं शुभाम् गिरम्
अकथयत्।
(ख) खगाधिपः- खगाधिपः जटायुः विलपन्ती वैदेहीं अपश्यत्।
(ग) हतसारथिः- हतसारथिः रावणः भूमौ अपतत्।
(घ) वामेन- वामेन हस्तेन दानं न करणीयम्।
(ङ) कवची- रावणः कवची शरी च आसीत्।
(आ)
उदाहरणमनुसृत्य समस्त पद रचयत
यथा- त्रयाणां लोकानां समाहारः — त्रिलोकी
(क) पञ्चानां वटानां समाहारः — ……………
(ख) सप्तानां पदानां समाहारः — ……………
(ग) अष्टानां भुजानां समाहारः — ……………
(घ) चतुर्णां मुखानां समाहारः — ……………
उत्तर:
(क) पञ्चवटी
(ख) सप्तपदी
(ग) अष्टभुजम्
(घ) चतुर्मुखम्
0 टिप्पणियाँ