Advertisement

मम परिचय

मम परिचयः | संस्कृत में अपना परिचय | संस्कृत प्रश्न उत्तर

🌸 मम परिचयः 🌸

संस्कृत में अपना परिचय — सरल प्रश्नोत्तर

📚 विद्यार्थियों के लिए उपयोगी संस्कृत सम्भाषण

इस पाठ के माध्यम से विद्यार्थी संस्कृत भाषा में अपना नाम, आयु, जन्मदिवस, कक्षा, विद्यालय, परिवार, प्रिय विषय, मित्र तथा भविष्य के लक्ष्य के बारे में सरलता से परिचय देना सीख सकते हैं।

प्रश्नः — भवान्/भवती कः/का अस्ति?
उत्तरम् — अहं बालकः/बालिका अस्मि।
प्रश्नः — भवान्/भवती कः/का अस्ति?
उत्तरम् — अहं छात्रः/छात्रा अस्मि।
प्रश्नः — भवतः/भवत्याः नाम किम् अस्ति?
उत्तरम् — मम नाम __________ अस्ति।
प्रश्नः — भवान्/भवती कति वर्षीयः/वर्षीया अस्ति?
उत्तरम् — अहं __________ वर्षीयः/वर्षीया अस्मि।
दश / एकादश / द्वादश / त्रयोदश / चतुर्दश / पञ्चदश / षोडश
प्रश्नः — भवतः/भवत्याः जन्मदिवसः कदा भवति?
उत्तरम् — मम जन्मदिवसः मार्चमासे 20 दिनाङ्के भवति।
प्रश्नः — भवान्/भवती कस्याम् कक्षायाम् पठति?
उत्तरम् — अहं __________ कक्षायाम् पठामि।
षष्ठी / सप्तमी / अष्टमी / नवमी / दशमी
प्रश्नः — भवान्/भवती कस्मिन् विद्यालये पठति?
उत्तरम् — अहं ‘केंद्रीय विद्यालय ................. ’ इति विद्यालये पठामि।
प्रश्नः — भवतः/भवत्याः प्राचार्यस्य नाम किम् अस्ति?
उत्तरम् — अस्माकम् प्राचार्यस्य नाम ..................... महोदयः अस्ति।
प्रश्नः — भवान्/भवती किं पठति?
उत्तरम् — अहं संस्कृतं पठामि।
प्रश्नः — भवतः/भवत्याः प्रियः विषयः कः अस्ति?
उत्तरम् — मम प्रियः विषयः संस्कृतम् अस्ति।
प्रश्नः — भवान्/भवती प्रियः विषयः कः अस्ति?
उत्तरम् — मह्यम् संस्कृतं बहु रोचते।
मम प्रियः विषयः संस्कृतम् अस्ति।
प्रश्नः — भवान्/भवती कुत्र वसति?
उत्तरम् — अहं __________ नगरे/राज्ये वसामि।
प्रश्नः — भवतः/भवत्याः गृहे कति जनाः सन्ति?
उत्तरम् — मम गृहे पञ्च जनाः सन्ति।
त्रयः / चत्वारः / षट् / सप्त / अष्ट / नव / दश
प्रश्नः — भवतः/भवत्याः मातुः नाम किम् अस्ति?
उत्तरम् — मम मातुः नाम __________ अस्ति।
प्रश्नः — भवतः/भवत्याः पितुः नाम किम् अस्ति?
उत्तरम् — मम पितुः नाम __________ अस्ति।
प्रश्नः — भवतः/भवत्याः प्रियः सखा/प्रिया सखी कः/का अस्ति?
उत्तरम् — मम प्रियः सखा/प्रिया सखी __________ अस्ति।
प्रश्नः — भवतः/भवत्याः प्रियः वर्णः कः अस्ति?
उत्तरम् — मम प्रियः वर्णः __________ अस्ति।
रक्तः / पीतः / नीलः / श्वेतः / कृष्णः / पाटलः / केसरः
प्रश्नः — भवतः/भवत्याः प्रियः शिक्षकः/प्रिया शिक्षिका कः/का अस्ति?
उत्तरम् — मम प्रियः शिक्षकः/प्रिया शिक्षिका __________ अस्ति।
प्रश्नः — भवान्/भवती भविष्ये किम् भवितुम् इच्छति?
उत्तरम् — अहं भविष्ये शिक्षकः/शिक्षिका भवितुम् इच्छामि।
शिक्षकः – शिक्षिका चिकित्सकः – चिकित्सिका अभियन्ता – अभियन्त्री सैनिकः – सैनिकी नेता – नेत्री कृषकः – कृषिका लेखकः – लेखिका नर्तकः – नर्तकी आरक्षकः – आरक्षिका क्रीडकः – क्रीडिका
🌺 एषः मम संक्षिप्तः जीवनपरिचयः अस्ति। 🌺

🙏 धन्यवादः 🙏

🚩 संस्कृतं पठामः। संस्कृतं वदामः। 🚩

मम परिचयः — संस्कृत सम्भाषण

विद्यार्थियों के लिए सरल एवं उपयोगी संस्कृत सामग्री

Advertisement